|
|
 |
 |
|
|
१५ मौसलपर्व.jpg)
मौसलपर्व - अध्याय 002
॥ श्रीः ॥
15.2. अध्यायः 002
Mahabharata - Mausala Parva - Chapter Topics
वैशम्पायनेन जनमेजयंपति यादवानां मौसलेन निधनप्रकारकथनारम्भः॥ 1 ॥ कदाचन विश्वामित्राकदिमहर्षिषु द्वारकः मागतेषु कैश्चन यादवैः सांबस्य स्त्रीवेषपरिकल्पनेन मुनीन्प्रति गर्भिणीयं किंरूपमपत्यं प्रसविष्यतीति प्रश्नः॥ 2 ॥ ततो रुष्टैर्महर्षिभिः स्वकुलविनाशकमायसं मुसलं प्रसविष्यतीति शापदानम्॥ 3 ॥ ततः परेथुः सांवेन मुसले प्रसूते भीतैस्तै राजाज्ञया तस्य चूर्णकरणेन समुद्र प्रक्षेपणम्॥ 4 ॥
Mahabharata - Mausala Parva - Chapter Text
जनमेजय उवाच।
कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह।
पश्यतो वासुदेवस्य भोजश्चैवक महारथाः॥ 15-2-1(96926)
वैशम्पायन उवाच। 15-2-2x(8022)
षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान्।
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः॥ 15-2-2(96927)
जनमेजय उवाच। 15-2-3x(8023)
केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका गताः।
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे॥ 15-2-3(96928)
वैशम्पायन उवाच। 15-2-4x(8024)
विश्वामित्रं च कण्वं च नारदं च तपोधनम्।
सारणप्रमुखा वीरा ददृशुर्द्वारकां गतान्॥ 15-2-4(96929)
ते वै सांबं पुरस्कृत्य भूषयित्वा स्त्रियं यथा।
अब्रुवन्नुपसङ्गम्य् दैवदण्डिनिपीडिताः॥ 15-2-5(96930)
इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः।
ऋषयः साधु जानीत किमियं जनयिष्यति॥ 15-2-6(96931)
इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः।
प्रत्यबुवंस्तान्मुनयो यत्तच्छृणु नराधिप॥ 15-2-7(96932)
वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम्।
वासुदेवस्य दायादः सांबोऽयं जनयिष्यति॥ 15-2-8(96933)
येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः।
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ॥ 15-2-9(96934)
समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः।
जरःकृष्णं महात्मानं शयानं भुवि भेत्स्यति॥ 15-2-10(96935)
इत्यब्रुवंस्ततो राजन्प्रलब्धास्तैर्दुरात्मभिः।
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम्।
तथोक्त्वा मुनयस्ते तु यथागतमथो ययुः॥ 15-2-11(96936)
अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैतन्मधुसूदनः।
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान्॥ 15-2-12(96937)
एवमुक्त्वा हृषीकेशः प्रविवेश पुरं तदा।
कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः॥ 15-2-13(96938)
श्वोभूतेऽथ ततः सांबो मुसलं तदसूकत वै।
येन वृष्णन्धककुले पुरुषा भस्मसात्कृताः॥ 15-2-14(96939)
वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत्।
असूत सापजं घोरं तच्च राज्ञे न्यवेदयन्॥ 15-2-15(96940)
विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत्।
तच्चूर्णं सागरे चापि प्राक्षिपन्पुरुषा नृप॥ 15-2-16(96941)
अघोषयंश्च नगरे वचनादाहुकस्य ते।
जनार्दनस्य रामस्य बभ्रोश्चैव महात्मनः॥ 15-2-17(96942)
अद्यप्रभृति सर्वेषु वृष्ण्यन्धककुलेष्विह।
सुरासवो न कर्तव्यः, सर्वैर्नगरवासिभिः॥ 15-2-18(96943)
यश्च नो विदितं कुर्यात्पेयं कश्चिन्नरः क्वचित्।
जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः॥ 15-2-19(96944)
ततो राजभयात्सर्वे नियमं चक्रिरे तदा।
नराः सासनमाज्ञाय तस्य राज्ञो महात्मनः॥ ॥ 15-2-20(96945)
इति श्रीमन्महाभारते मौसलपर्वणि द्वितीयोऽध्यायः॥ 2 ॥
Mahabharata - Mausala Parva - Chapter Footnotes
7-2-2 मुसलैरेरकालग्नैर्मुसलकणैः॥ 7-2-10 जरा कृष्णमिति झ.पाठः। जरानामा कश्चित्कैवर्तः॥ 7-2-15 किङ्करो यमदूतस्तत्तुत्यम्॥ 7-2-19 खयंकृत्वा स्वयंकर्ता॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|